॥ श्रीसूर्याष्टोत्तरशतनामस्तोत्रम् ॥
सूर्य बीज मन्त्र – ॐ ह्राँ ह्रीं ह्रौं सः सूर्याय नमः ॥ अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥ इनाय विश्वरूपाय इज्यायैन्द्राय भानवे । इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥ ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे । वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥ उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय…