॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥

ऋणमोचन अङ्गारकस्तोत्रम्   अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच । ऋणग्रस्तनराणां तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच । वक्ष्येऽहं सर्वलोकानां हितार्थं हितकामदम् । अस्य श्री अङ्गारकमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । अङ्गारको देवता । मम ऋणविमोचनार्थे अङ्गारकमन्त्रजपे विनियोगः । ध्यानम् । रक्तमाल्याम्बरधरःशूलशक्तिगदाधरः । चतुर्भुजो मेषगतो वरदश्च धरासुतः ॥ १॥ मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः ।…

Read More

॥ श्रीअङ्गारकाष्टोत्तरशतनामस्तोत्रम् ॥

मङ्गल बीज मन्त्र – ॐ क्राँ क्रीं क्रौं सः भौमाय नमः ॥ महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १॥ महारौद्रो महाभद्रो माननीयो दयाकरः । मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥ सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः । वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३॥ वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः । नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४॥ क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो…

Read More

आदित्याष्टकम

॥ आदित्याष्टकम् ॥ उदयाद्रिमस्तकमहामणिं लसत् – कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ १॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ २॥ दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३॥ श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४॥ शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम् । गदपङ्कशोषणमघौघनाशनंशरणं गतोऽस्मि रविमंशुमालिनम् ॥ ५॥ श्रुतितत्त्वगम्यमखिलाक्षिगोचरं जगदेकदीपमुदयास्तरागिणम् । गदपङ्कशोषणमघौघनाशनंशरणंगतोऽस्मि रविमंशुमालिनम्…

Read More

आदित्य कवच

ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप् -जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः । ध्यानं उदयाचलमागत्य वेदरूपमनामयम् । तुष्टाव परया भक्त्या वालखिल्यादिभिर्वृतम् ॥ १॥ देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् । ध्यायन् स्तुवन् पठन् नाम यस्सूर्यकवचं सदा ॥ २॥ घृणिः पातु शिरोदेशं सूर्यः फालं च पातु मे…

Read More