॥ आदित्याष्टकम् ॥
उदयाद्रिमस्तकमहामणिं लसत् –
कमलाकरैकसुहृदं महौजसम् ।
गदपङ्कशोषणमघौघनाशनंशरणं
गतोऽस्मि रविमंशुमालिनम् ॥ १॥
तिमिरापहारनिरतं निरामयं
निजरागरञ्जितजगत्त्रयं विभुम् ।
गदपङ्कशोषणमघौघनाशनंशरणं
गतोऽस्मि रविमंशुमालिनम् ॥ २॥
दिनरात्रिभेदकरमद्भुतं परं
सुरवृन्दसंस्तुतचरित्रमव्ययम् ।
गदपङ्कशोषणमघौघनाशनंशरणं
गतोऽस्मि रविमंशुमालिनम् ॥ ३॥
श्रुतिसारपारमजरामयं परं
रमणीयविग्रहमुदग्ररोचिषम् ।
गदपङ्कशोषणमघौघनाशनंशरणं
गतोऽस्मि रविमंशुमालिनम् ॥ ४॥
शुकपक्षतुण्डसदृशाश्वमण्डलं
अचलावरोहपरिगीतसाहसम् ।
गदपङ्कशोषणमघौघनाशनंशरणं
गतोऽस्मि रविमंशुमालिनम् ॥ ५॥
श्रुतितत्त्वगम्यमखिलाक्षिगोचरं
जगदेकदीपमुदयास्तरागिणम् ।
गदपङ्कशोषणमघौघनाशनंशरणंगतोऽस्मि रविमंशुमालिनम् ॥६॥
श्रितभक्तवत्सलमशेषकल्मष –
क्षयहेतुमक्षयफलप्रदायिनम् ।
गदपङ्कशोषणमघौघनाशनं
शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७॥
अहमन्वहं सतुरगक्षताटवीशतकोटिहालकमहामहीधनम्।
गदपङ्कशोषणमघौघनाशनंशरणं
गतोऽस्मि रविमंशुमालिनम् ॥ ८॥
इति सौरमष्टकमहर्मुखे रविं
प्रणिपत्य यः पठति भक्तितो नरः ।
स विमुच्यते सकलरोगकल्मषैः
सवितुस्समीपमपि सम्यगाप्नुयात् ९॥
इति आदित्याष्टकं समाप्तम् ॥